श्री दुर्गा षोडशनाम स्तोत्रम्

नारद उवाच ।
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।
नित्या सत्या भगवती शर्वाणी सर्वमङ्गला ॥ १ ॥

अम्बिका वैष्णवी गौरी पार्वती च सनातनी ।
नामानि कौथुमोक्तानि सर्वेषां शुभदानि च ॥ २ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे सप्तपञ्चाशत्तमोऽध्याये श्री दुर्गा षोडशनाम स्तोत्रम् ॥